वांछित मन्त्र चुनें

प॒वित्र॑वन्त॒: परि॒ वाच॑मासते पि॒तैषां॑ प्र॒त्नो अ॒भि र॑क्षति व्र॒तम् । म॒हः स॑मु॒द्रं वरु॑णस्ति॒रो द॑धे॒ धीरा॒ इच्छे॑कुर्ध॒रुणे॑ष्वा॒रभ॑म् ॥

अंग्रेज़ी लिप्यंतरण

pavitravantaḥ pari vācam āsate pitaiṣām pratno abhi rakṣati vratam | mahaḥ samudraṁ varuṇas tiro dadhe dhīrā ic chekur dharuṇeṣv ārabham ||

पद पाठ

प॒वित्र॑ऽवन्तः । परि॑ । वाच॑म् । आ॒स॒ते॒ । पि॒तआ । ए॒षा॒म् । प्र॒त्नः । अ॒भि । र॒क्ष॒ति॒ । व्र॒तम् । म॒हः । स॒मु॒द्रम् । वरु॑णः । ति॒रः । द॒धे॒ । धीराः॑ । इत् । शे॒कुः॒ । ध॒रुणे॑षु । आ॒ऽरभ॑म् ॥ ९.७३.३

ऋग्वेद » मण्डल:9» सूक्त:73» मन्त्र:3 | अष्टक:7» अध्याय:2» वर्ग:29» मन्त्र:3 | मण्डल:9» अनुवाक:4» मन्त्र:3


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (पवित्रवन्तः) उक्त पुण्य कर्मवाले कर्मयोगी (परिवाचम्) वेदरूपी वाणी का (आसते) आश्रयण करते हैं। (एषाम्) इन कर्मयोगियों का (प्रत्नः) प्राचीन (पिता) परमात्मा (व्रतम्) इनके व्रत की (अभिरक्षति) रक्षा करता है और उनके सामने (महः समुद्रम्) इस बड़े संसाररूप सागर को (वरुणम्) जो वरुणरूप अपनी लहरों में डुबा लेने के लिये उद्धत है, उसको (तिरः दधे) परमात्मा तिरस्कार कर देता है। (धरुणेषु) उक्त कर्मयोग और ज्ञानयोगादि साधनों में (आरभम्) आरम्भ को (धीराः) धीरपुरुष (इत्) ही (शेकुः) समर्थ होते हैं, अन्य नहीं ॥३॥
भावार्थभाषाः - परमात्मा उपदेश करता है कि पवित्र कर्मोंवाले पुरुष वाग्मी बनते हैं और वे ही इस भवसागर की लहरों से पार हो सकते हैं, अन्य नहीं। इसी अभिप्राय से उपनिषत् में यह कहा है कि “कश्चिद्धीर आत्मानमैक्षत्” यह संसार छुरे की धार है, कोई धीर पुरुष ही इस धार का अतिक्रमण कर सकता है, अन्य नहीं। भवसागर की लहरें और छुरे की धार यह एक अत्यन्त उत्तेजना उत्पन्न करने के लिये वाणी का अलङ्कार है ॥३॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (पवित्रवन्तः) पुण्यकर्माणः कर्मयोगिनः (परिवाचम्) वेदवाचं (आसते) आश्रयन्ति (एषाम्) अमीषां कर्मयोगिनां (प्रत्नः) प्राचीनः (पिता) परमात्मा (व्रतम्) एषां सद्व्रतं (अभिरक्षति) रक्षति। अथ च तदभिमुखं (महः समुद्रम्) महान्तं संसारसागरमिमं (वरुणम्) वरुणरूपेण स्वतरङ्गेषु निमज्जयितुमुद्यतं (तिरः दधे) परमात्मा तिरस्करोति। तथा (धरुणेषु) कर्मयोगज्ञानयोगादिसाधनेषु (आरभम्) आरम्भं कर्तुं (धीराः) धीराः पुरुषाः (इत्) एव (शेकुः) समर्था भवन्ति, नान्ये ॥३॥